हिमालय:

हिमालय: संस्कृत निबंध – पर्वतराज हिमालय पर संस्कृत में निबंध कभी-कभी प्रश्नपत्र में पूछ लिया जाता है। हिमालय पर संस्कृत में निबंध लिखने के लिए निम्न बिंदुओं पर निबंध लिखना है।

हिमालय: संस्कृत निबंध

भारतदेशस्य सुविस्तृतायाम् उत्तरस्यां दिशि स्थितो गिरिः पर्वतराजो हिमालय इति नाम्नाभिधीयते जनैः। अस्य महोत्वानि शिखराणि जगत: सर्वानपि पर्वतान् जयन्ति। अतएव लोका एनं पवर्तराजं कथयन्ति। अस्योन्नतानि शिखराणि सदैव हिये. आच्छादितानि तिष्ठन्ति। अत एवास्य हिमालय इति हिमगिरिरित्यपि च नाम सुप्रसिद्धम्। ‘एवरेस्ट’, ‘गौरीशङ्कर’ प्रभृतीनि अस्य अधित्यकायां त्रिविष्टप-नयपाल भूतान देशाः पूर्णसत्तासम्पन्नाः कश्मीर हिमाचत्तप्रदेशासम-सिक्किम मणिपुर प्रभृतयः भारतीयाः प्रदेशाः सन्ति।

उत्तरभारतस्य पर्वतीयो भागोऽपि हिमालयस्यैव प्रान्तरे विष्ठति। अयं पर्वतराजः भारतवर्षस्य उत्तरसीम्नि स्थितः तत् प्रहरीव शत्रुभ्यः सततं रक्षति। हिमालयादेव समुद्गम्य गङ्गा- सिन्धु-पुत्राख्या: महानद्यः शतद्रि- विपाशा-यमुना-सरयू गण्डकी- नारायणी कौशिकीप्रभृतयः नद्यश्च समस्तामपि उत्तरभारतभुवं स्वकीयैः तीर्थोदकैः न केवलं पुनन्ति, अपितु इमा शस्यश्यामलामपि कुर्वन्ति।

अस्योपत्यकासु सुदीर्घाः बनराजयो विराजन्ते यत्र विविधाः ओषधयो वनस्पतयस्तरवश्च तिष्ठन्ति। इमाः ओषधयः जनान् आमयेभ्यो रक्षन्ति, तरवश्च आसन्द्यादि गृहोपकरण निर्माणार्थं प्रयुज्यन्ते। हिमालयः वर्षतौ दक्षिण समुद्रेभ्यः समुत्थिता मेघमाला अवरुध्य वर्षणाय ताः प्रवर्तयति। अस्योपत्यकायो विद्यमानः कश्मीरो देश: स्वकीयाभिः सुषमाभिः भूस्वर्ग इति संज्ञया अभिहितो भवति लोके, ततश्वपूर्वस्या दिशि स्थितः किन्नर देशो देवभूमिनाम्ना प्राचीनसाहित्ये प्रसिद्धः आसीत्।

अद्यापि ‘कुलूघाटी’ इति नाम्ना प्रसिद्धोऽयंप्रदेश: रमणीयतया केषा मनो न हरति। शिमला- देहरादून- मसूरीनैनीताल- प्रभृतीनि नगराणि देशस्य सम्पन्नान् जनान् ग्रीष्मतचलादिव भ्रमणाय आकर्षन्तिः एभ्योऽपि पूर्वस्मिन् भागेऽवस्थितः रमणीयतमः प्रदेशः कामरूपतया ‘कामरूप’ इति संज्ञयाअभिधीयते। अस्यैव कन्दरासु तपस्यन्तः अनेके ऋषयो मुनयश्च परां सिद्धि प्राप्तवन्तः।

अस्य सिद्धिमत्वं विलोक्यैव उपहरे गिरीणां सङ्गमे च नदीनां धिया विप्रोऽजायत’ इत्यादि कथयन्तः वैदिका ऋषयः अस्य महत्त्वं स्वीकृतवन्तः पुराणेषु सर्वविधानां सिद्धोनां अस्यैव पर्वतस्य कैलासशिखरे बदरीनाथ-केदारनाथ- पशुपतिनाथ-हरिद्वार- हृषीकेश-वैष्णवदेवी ज्वालादेवी प्रभृतीनि तीर्थस्थानानि सन्ति। अस्यैव प्रदेशेषु अतएव पर्वतराजोऽयं हिमालयः रक्षकतया, पालकतया, सर्वाषधिभिः संरक्षकतया, सर्वसिद्धि प्रदातृतया च भारतीयेषु जनेषु जल सुतरां समादृतः पर्वतराजः इति ।

  • स्थिति
  • महिमा:
  • देवा नाम निवास स्थली
  • लाभा:

स्थिति

पर्वतराज: हिमालय: भारतस्य उत्तरस्यां दिशि: विराजते। हिमालय: प्रहरी इव भारतम् रक्षति। पूर्ववश्या पश्चिमश्याम् च दिशि हिमालयस्य शाखा: प्रशाखा दूरं प्रसृता: सन्ति। स: भारत भ्रातु शिरसि मुकुट इव शोभते अस्य गौरी शंकर इति नाम शिखरं संसारस्य इसमस्तेषु पर्वत शिखरेषु उच्चतम अस्ति।

महिमा:

अयं परमौषधीनाम् रत्नां च महान आकार: आस्ति। गंगा यमुना प्रभृतय: नद्य: अत्र एव प्रभवन्ति। एता: सरिता: भारत भूमिम् शस्यश्यामलां कृषि समृद्धां च कुर्वन्ति।

देवानाम् निवास स्थली

अत्र देवानां निवास: अस्ति। महादेव सपरिवार: अत्र एवं निवसति। पार्वती अत्रैव तपम् अकरोत सा तपत्वा शिव लब्धवती। भारतास्ये अनेकानि तीर्थस्थलानि अत्र एव संन्ति। तपस्वीन: हिमार्द्र: गुहास निविश्य तपस्यां कुर्वंति। अतः हिमालया देवतात्मा इति कथ्यते।

लाभा:

हिमालय: भारतीयानाम कृते वरदान मेव अस्ति। अत्र शानता: तपस्विन: विश्रामेच्छुका: ग्राहस्था प्रकृति: सौंदर्यरसज्ञा: पर्यटका: शांति जीवनदायिनी: औषधि रम्यनिर्झरान् कलकल न दन्ती: निर्झरिणी: च आप्रुवन्ति।