सिद्धिमन्त्रः

रामदासः नारायणपुरे निवसति । सः नित्यं ब्राह्मे मुहूर्ते उत्थाय नित्यकर्माणि करोति, नारायणं स्मरति, ततः परं पशुभ्यः घासं ददाति। अनन्तरं पुत्रेण सह सः क्षेत्राणि गच्छति। तत्र सः कठिनं श्रमं करोति। तस्य श्रमेण निरीक्षणेन च कृषौ प्रभूतम् अन्नम् उत्पद्यते। तस्य पशवः हृष्ट-पुष्टाङ्गाः सन्ति, गृहं च धनधान्यादिपूर्णम् अस्ति। अत्रैव ग्रामे पैतृकधनेन धनवान् धर्मदासः निवसति। तस्य सकल कार्य सेवकाः सम्पादयन्ति सेवकानाम् उपेक्षया तस्य पशव: दुर्बला, क्षेत्रेषु च बीजमात्रमपि अन्न नोत्पद्यते। क्रमशः तस्य पैतृकं धनं समाप्तम् अभवत्। तस्य जीवनम् अभावग्रस्तं जातम्।

एकदा वनात् प्रत्यागत्य रामदासः स्वद्वारि उपविष्टं धर्मदास दुर्बलं खिन्न च दृष्ट्वा अपृच्छत्, “मित्र धर्मदास। चिराद् दृष्टोऽसि कि केनापि रोगेण ग्रस्तः, येन एवं दुर्बलः।” धर्मदासः प्रसन्नवदनं तम् अवदत्, “मित्र नाहं रुग्ण, पर क्षीणविभवः इदानीम् अन्य इव सञ्जातः। इदमेव चिन्तयामि केनोपायेन, मन्त्रेण, तन्त्रेण वा सम्पन्नः भवेयम्।” रामदासः तस्य दारिद्र्यस्य कारणं तस्यैव अकर्मण्यता इति विचार्य एवम् अकथयत्. “मित्र! पूर्व केनापि दयालुना साधुना मह्यम् एकः सम्पत्तिकारकः मन्त्रः दत्तः, यदि भवान् अपि तं मन्त्रम् इच्छति तर्हि तेन उपदिष्टम् अनुष्ठानम् आचरतु।” “मित्र! शीघ्रं कथय तदनुष्ठानं येनाहं पुनः सम्पन्नः भवेयम्।” रामदासः अवदत्, “मित्र! नित्यं सूर्योदयात् पूर्वम् उत्तिष्ठ, स्वपशूनां च उपचयाँ स्वयमेव कुरु, प्रतिदिनं च क्षेत्रेषु कर्मकराणां कार्याणि निरीक्षस्व । अनेन तव अनुष्ठानेन प्रसन्नः सः महात्मा वर्षान्ते अवश्यं तुभ्यं सिद्धिमन्त्रं दास्यति इति।”

विपन्नः धर्मदासः सम्पत्तिम् अभिलषन् वर्षम् एक यथोक्तम् अनुष्ठानम् अकरोत्। नित्य प्रातः जागरणेन तस्य स्वास्थ्यम् अवर्धत। तेन नियमेन पोषिताः पशवः स्वस्थाः सबलाः च जाताः, गाव: महिष्य: च प्रचुरं दुग्धम् अयच्छन्। तदानीं तस्य कर्मकराः अपि कृषिकार्ये सन्नद्धाः अभवन्। अतः तस्मिन् वर्षे तस्य क्षेत्रेषु प्रभूतम् अन्नम् उत्पन्नं, गृहं च धनधान्यपूर्ण जातम्। एकस्मिन् दिने प्रातः रामदासः क्षेत्राणि गच्छन् दुग्धपरिपूर्णपात्र हस्ते दधानं प्रसन्नमुखं धर्मदासम् अवलोक्य अवदत्, “अपि कुशलं ते, वर्धते कि तव अनुष्ठानम्? कि तं महात्मानं मन्त्रार्थम् उपगच्छाव?” धर्मदासः प्रत्यवदत्, “मित्र! वर्षपर्यन्तं श्रमं कृत्वा मया इदं सम्यग् ज्ञातं यत् ‘कर्म’ एव स सिद्धिमन्त्रः।