वाराणसी

वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पङ्क्तिः धवलायां चन्द्रिकायां बहुराजते। अगणिताः पर्यटकाः सुदूरेभ्यः नित्यम् अत्र आयान्ति, अस्याः घट्टानाञ्च शोभी विलोक्य इमा बहुप्रशंसन्ति। वाराणस्यां प्राचीनकालादेव गेहे गेहे विद्याया: दिव्यं ज्योतिः द्योतते। अधुनाऽपि अत्र सतत प्रवहति, जनानां ज्ञानञ्च वर्द्धयति अत्र अनेक आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः।

न केवलं भारतीयाः, अपितु वैदेशिका: गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृह्णन्ति। अत्र हिन्दूविश्वविद्यालयः संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानाञ्च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति। एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति। इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः। मुगलयुवराजः दाराशिकोह अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत्।

स तेषां ज्ञानेन तथा प्रभावितः अभवत् यत् तेन उपनिषदाम् अनुवादः पारसी भाषायां कारितः। इय नगरी विविधधर्माणां सङ्गमस्थली महात्मा बुद्ध, तीर्थङ्करः पार्श्वनाथ:, शङ्कराचार्य:, कबीर, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। न केवलं दर्शने, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता । अत्रत्याः … कौशेयशाटिकाः देशे देशे सर्वत्र स्पृह्यन्ते। अत्रत्याः प्रस्तरमूर्तयः प्रथिताः। इयं निजां प्राचीनपरम्पराम् इदानीमपि परिपालयति – तथैव गीयते कविभिः- मरणं मङ्गलं यत्र विभूतिश्च विभूषणम्। कौपीनं यत्र ‘कौशेयं सा काशी केन मीयते॥