भारतीया संस्कृतिः

भारतीय संस्कृति भारतीया संस्कृतिः संस्कृत निबंध अति महत्वपूर्ण निबंध है। जिस के मुख्य बिंदु इस प्रकार हैं-

संस्कृते: स्वरूपम्

अस्माकम् देशस्य संस्कृति अतीव प्राचीनम् अस्ति। अस्य राष्ट्रस्य काचन प्राचीना संस्कृति वर्तते सा संस्कृति राष्ट्रस्य उपकरोति। अस्मिन् विश्वे सा एवं संस्कृति उपादेया भवति यथा सर्वेषां स्वान्तेषु विश्व हितम् बन्धुत्वं च आदर्शत्वेन उररी क्रियते भारतीय संस्कृतेः वैशिष्टयम् भारतीय संस्कृति धर्म प्रधाना, आध्यात्मिक भाव प्रवणा, पारलौकिक भाव सयुता कर्मनिष्ठा परा ज्ञान विज्ञान संश्रिता, संस्कृत भाषायाः वाडमये निवद्धा वर्तते।

आधारभूताः गुणा:

सदाचारस्य पालनम् वर्णाश्रमस्य व्यवस्था परोपकार कर्मवादपुनर्जन्मवादः मोक्षावाप्तिः पुरुषार्थ चतुष्टये जीवनोद्देश्य, यज्ञस्य महत्व, धर्माधृतम्, सत्य परिपालनम् अहिंसा परिपालन इत्यदयः भारतीय संस्कृतेः आधार भूताः गुणा सन्ति ।

संस्कृतेः प्रतीक:

भारतीय संस्कृतेः प्रतीकः गैरिकी भगवदध्वजा वर्तते। सर्वधर्म समभाव ईश्वर विश्वासः इत्यादयः अस्माक संस्कृतेः प्रमुखानि तत्वानि सन्ति।

भारतीया संस्कृतिः

मानव-जीवनस्य संस्करण संस्कृतिः। अस्माकं पूर्वजाः मानवजीवनं संस्कर्तुं महान्तं प्रयत्नम् अकुर्वन्। ते अस्माकं जीवनस्य संस्करणाय यान् आचारान् विचारान् च अदर्शयन् तत् सर्वम् अस्माकं संस्कृतिः। “विश्वस्य स्रष्टा ईश्वर एक एव” इति भारतीयसंस्कृतेः मूलम्। विभिन्नमतावलम्बिनः विविधैः नामभि एकम् एव ईश्वर भजन्ते । अग्निः इन्द्रः, कृष्णः, करीम, रामः, रहीमः, जिन, बुद्ध, ख्रिस्तः, अल्लाहः इत्यादीनि नामानि एकस्य एव परमात्मनः सन्ति। तम् एव ईश्वरं जनाः गुरुः इत्यपि मन्यन्ते । अतः सर्वेषां मतानां समभाव: सम्मानश्च अस्माकं संस्कृतेः सन्देशः।

भारतीया संस्कृतिः तु सर्वेषां मतावलम्बिनां सङ्गमस्थली । काले काले विविधाः विचाराः भारतीयसंस्कृतौ समाहिताः । एषा संस्कृतिः सामासिकी संस्कृतिः यस्याः विकासे विविधानां जातीनां सम्प्रदायानां, विश्वासानाञ्च योगदानं दृश्यते। अतएव अस्माकं भारतीयानाम् एका संस्कृति एका च राष्ट्रियता। सर्वेऽपि वयं एकस्याः संस्कृतेः समुपासका एकस्य राष्ट्रस्य च राष्ट्रियाः। यथा भ्रातरः परस्पर मिलित्वा सहयोगेन सौहार्देन च परिवारस्य उन्नति कुर्वन्ति तथैव अस्माभिः अपि सहयोगेन सौहार्देन च राष्ट्रस्य उन्नतिः कर्त्तव्या । अस्माकं संस्कृतिः सदा गतिशीला वर्तते। मानवजीवनं संस्कर्तुम् एषा यथासमयं नवां नवां विचारधारांस्वीकरोति, नवां शक्ति च प्राप्नोति । अत्र दुराग्रहः नास्ति, यत् युक्तियुक्त कल्याणकारि च तदत्र सहर्षं गृहीतं भवति। एतस्याः गतिशीलतायाः रहस्यं मानवजीवनस्य शाश्वतमूल्येषु निहितम्, तद् यथा सत्यस्य प्रतिष्ठा, सर्वभूतेषु समभावः विचारेषु औदार्यम् आचारे दृढता चेति।

एषा कर्मवीराणां संस्कृतिः । “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इति अस्याः उद्घोषः । पूर्व कर्म, तदनन्तरं फलम् इति अस्माक नियमः। इदानीं यदा वयं राष्ट्रस्य नवनिर्माणे सलग्नाः स्मः निरन्तरं कर्मकरणम् अस्माकं मुख्यं कर्त्तव्यम्। निजस्य श्रमस्य फलं भोग्यं, अन्यस्य श्रमस्य शोषणं सर्वथा वर्जनीयम् । यदि वयं विपरीतम् आचरामः तदा न वयं सत्यं भारतीयसंस्कृतेः उपासकाः। वयं तदैव यथार्थं भारतीयाः यदास्माकम् आचारे विचारे च अस्माकं संस्कृतिः लक्षिता भवेत् । अभिलषामः वयं यत् विश्वस्य अभ्युदयाय भारतीयसंस्कृते एषः दिव्यः सन्देशः लोके सर्वत्र प्रसरेत्।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॥