प्रयागे महाकुम्भ मेला

भारतवर्षस्य उत्तरप्रदेशराज्ये प्रयागस्य अतिमहत्वपूर्णस्थानं अस्ति। प्रयाग नगर प्राचीनकालाद एवं अतिप्रसिद्धं अस्ति। प्रयागे प्रति द्वादशवर्षे कुम्भमेला भवति तथा प्रति षष्टवये अर्द्धकुम्भ मेला भवति यत्र मकरगते सूर्ये माघमासे अनेककोटिश, जनाः अत्र आयन्ति। एक मांस उषित्वा कल्पवासं कुवन्ति। गंगा-यमुना नद्यौ संगमे स्रात्वा विदुषां च उपदेशेन आत्मानं पावयन्ति।

सन् २०१३ ई. वर्षे माघ मासे मेला आयोजनं भवति स्म । तत्र देश-विदेशस्य अनुमानतः दशकोटिशः जनाः अत्रः एकत्रित अभवन्। अयं मेला जगते सर्वाधिक प्रसिद्धः मेला अस्ति। दूरदर्शनेन अस्य सरलं प्रसारणं भवति। कुम्भ महापर्व संगमजले स्रात्वा जनाः विगतकल्पषः भवन्ति इति जनानां विश्वासः अस्ति। प्राचीनकालादेव अयं मेला भारतीय संस्कृतेः केन्द्रस्य महिमा गायति। महाकवि कालिदासः कालिदास अस्य

महिमा विषये अकथयत्

समुद्र पन्योर्जल सन्निपाते।

पूतात्मनामत्र किलोभिषेकात

तत्वावबोधेन विनापि भूयस

तनुत्यजां नास्ति शरीर बन्धः ॥

प्रयाग: संस्कृत निबंध

प्रयाग: संस्कृत निबंध – भारतवर्षस्य उत्तरप्रदेशराज्ये प्रयागस्य विशिष्टं स्थानमस्ति । अत्र ब्रह्मणः प्रकृष्टयागकरणात् अस्य नाम प्रयागः अभवता गङ्गा-यमुनयोः सङ्गमे सितासितजले स्नात्वा जनाः विगतकल्मषा भवन्ति इति जनानां विश्वासः। अमायां पौर्णमास्यां संक्रान्तौ च स्नानार्थिनामत्र महान् सम्मर्दः भवति। प्रतिवर्षं मकरं गते सूर्ये माघमासे तु अनेकलक्षाः जनाः अत्र आयान्ति मासमेकमुषित्वा च सङ्गमस्य पवित्रेण जलेन, विदुषां महात्मनामुपदेशामृतेन च आत्मानं पावयन्ति।

अस्मिन्नेव पर्वणि महाराजः श्रीहर्षः प्रतिपञ्चवर्षम् अत्रागत्य सर्वस्वमेव याचकेभ्यो दत्त्वा मेघ इव पुनः सञ्चयार्थ स्वराजधानी प्रत्यगच्छत् । ऋषेः भरद्वाजस्य आश्रमः अपि अत्रैव अस्ति । यत्र पुरा दशसहस्त्रमिताः विद्यार्थिनः अधीतिनः आसन्। पितुः आज्ञां पालयन्। पुरुषोत्तमः श्रीरामः अयोध्यायाः वनं गच्छन् ‘कुत्र मया वस्तव्यम्’ इति प्रष्टुम् अत्रैव भरद्वाजस्य समीपम् आगतः। चित्रकूटमेव त्वन्निवासयोग्यम् उचितं स्थानम् इति तेनादिष्टः रामः सीतया लक्ष्मणेन च सह चित्रकूटम् अगच्छत्।

पुरा वत्सनामकमेकं समृद्ध राज्यमासीत्। अस्य राजधानी कौशाम्बी इतः नातिदूरेऽवर्तत। अस्य राज्यस्य शासक: महाराव: उदयनः वीर: अप्रतिमसुन्दरः ललितकलाभिज्ञश्वासीत् । यमुनातटे आधुनिक ‘सुजावन’ ग्रामे तस्य सुयामुनप्रासादस्य ध्वंसावशेषाः तस्य सौन्दर्यानुरागं ख्यापयन्ति। प्रियदर्शी सम्राट् अशोकः कौशाम्ब्यामेव स्वशिलालेखमकारयत् योऽधुना कौशाम्ब्याः आनीय प्रयागस्य दुर्गे सुरक्षितः। गङ्गायाः पूर्व पुराणप्रसिद्धस्य महाराजस्य पुरूरवसः राजधानी प्रतिष्ठानपुरं झुंसीत्याधुनिकनाम्ना प्रसिद्धमस्ति । यस्य प्रतिष्ठा अद्यापि विदुषां महात्मनाञ्च स्थित्या अक्षुण्णैव।

इतिहासप्रसिद्धः नीतिनिपुणः मुगलशासक: अकबरनामा दिल्ल्याः सुदूरे पूर्वस्यां दिशिस्थितयोः कडाजौनपुरनामकयोः समृद्धयोः राज्ययो: निरीक्षणं दुष्करं विज्ञाय तयोर्मध्ये प्रयागे गङ्गायमुनाभ्यां परिवृतं दृढं दुर्गमकारयत् गङ्गा-प्रवाहाच्चास्य रक्षणाय विशाल बन्धमप्यकारयत् योऽद्यापि नगरस्य गङ्गायाश्च मध्ये सीमा इव स्थितोऽस्ति अयमेव प्रयागस्य नाम स्वकीयस्य ‘इलाही’ धर्मस्यानुसारेण ‘इलाहाबाद’ इत्यकरोत्। इदं दुर्गमतीव विशालं सुदृढं सुरक्षादृष्ट्या च अतिमहत्त्वपूर्णमस्ति। भारतस्य स्वतन्त्रतान्दोलनस्य इदं नगरं प्रधानकेन्द्रम् आसीत्।

श्रीमोतीलालनेहरू, महामना मदनमोहनमालवीयः, राष्ट्रनायकस्य पण्डितजवाहरलालस्य इयं क्रीडास्थली कर्मभूमिश्च आजादोपनामकश्चन्द्रशेखरः अन्ये च स्वतन्त्रतासंग्रामसैनिकाः अस्यामेव पावनभूमौ उषित्वा आन्दोलनस्य सञ्चालनम् अकुर्वन्। राष्ट्रभाषा-हिन्दी-प्रचारे संलग्न हिन्दी साहित्यसम्मेलनम् अत्र स्थितम्। अत्रैव च अनेकसहस्रसंख्यैः देशविदेशविद्यार्थिभिः परिवृतः विविधविद्यापारङ्गतैः विद्वद्वरेण्यैः उपशोभितः च प्रयागविश्वविद्यालयः भरद्वाजस्य प्राचीन गुरुकुलस्य नवीनं रूपमिव शोभते। स्वतन्त्रेऽस्मिन् भारते प्रत्येक नागरिकाणां न्यायप्राप्तेरधिकारघोषणामिव कुर्वन् उच्चन्यायालयः अस्य नगरस्य प्रतिष्ठा वर्द्धयति।