प्रबुद्धो ग्रामीणः

एकदा बहवः जनाः धूमयानम् (रेलगाड़ी) आरुह्य नगरं प्रति गच्छन्ति स्म। तेषु केचित् ग्रामीणा: केचिच्च नागरिका: आसन्। मौन स्थितेषु तेषु एकः नागरिक: ग्रामीणान् उपहसन् अकथयत्, “ग्रामीणा अद्यापि पूर्ववत् अशिक्षिता: अज्ञाश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति ।” तस्य तादृशं जल्पनं श्रुत्वा कोऽपि चतुरः ग्रामीण: अब्रवीत्, “भद्र नागरिक! भवान् एव किञ्चित् ब्रवीतु, यतो हि भवान् शिक्षितः बहुज्ञः च अस्ति।”

इदम् आकर्ण्य स नागरिक: सदपों ग्रीवाम् उन्नमय्य अकथयत्, “कथयिष्यामि, पर पूर्व समय: विधातव्यः ।” तस्य तो वात्तां श्रुत्वा स चतुर: ग्रामीण; अकथयत्, “भोः वयम् अशिक्षिताः भवान् च शिक्षितः, वयम् अल्पज्ञाः भवान् च बहुज्ञः इत्येवं विज्ञाय अस्माभिः समयः कर्त्तव्यः, वयं परस्पर प्रहेलिका प्रक्ष्यामः। यदि भवान् उत्तरं दातुं समर्थः न भविष्यति तदा भवान् दशरूप्यकाणि दास्यति। यदि वयम् उत्तरं दातुं समर्था: न भविष्यामः तदा दशरूप्यकाणाम् अर्ध पञ्चरूप्यकाणि दास्यामः । ”

“आम् स्वीकृतः समयः” इति कथिते तस्मिन् नागरिके स ग्रामीण: नागरिकम् अवदत्, “प्रथमं भवान् एवं पृच्छतु।” नागरिकश्च तं ग्रामीणम् अकथयत्, “त्वमेव प्रथमं पृच्छ” इति । इदं श्रुत्वा स ग्रामीणः अवदत् “युक्तम्, अहमेव प्रथम पृच्छामि –

अपदो दूरगामी च साक्षरो न च पण्डितः। अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ अस्या उत्तर ब्रवीतु भवान्।

नागरिक: बहुकालं यावत् अचिन्तयत्, पर प्रहेलिकायाः उत्तरं दातुं समर्थः न अभवत् अतः ग्रामीणम् अवदत् अहम् अस्याः प्रहेलिकायाः उत्तर न जानाति । इदं श्रुत्वा ग्रामीण: अकथयत्, यदि भवान् उत्तरं न जानाति, तर्हि ददातु दशरूप्यकाणि। अतः म्लानमुखेन नागरिकेण समयानुसार दशरूप्यकाणि दत्तानि । पुनः ग्रामीणोऽब्रवीत्, “इदानीं भवान् पृच्छतु प्रहेलिकाम्।”

दण्डदानेन खिन्नः नागरिक: बहुकाल विचार्य न काञ्चित् प्रहेलिकाम् अस्मरत्, अतः अधिक लज्जमानः अब्रवीत्, “स्वकीयायाः प्रहेलिकायाः त्वमेव उत्तर ब्रूहि ।” तदा सः ग्रामीण: विहस्य स्वप्रहेलिकायाः सम्यक् उत्तरम् अवदत् “पत्रम्” इति। यतो हि इदं पदेन विनापि दूरं याति अक्षरैः युक्तमपि न पण्डितः भवति। एतस्मिन्नेव काले तस्य ग्रामीणस्य ग्रामः आगतः। स