कृष्णः गोपालनन्दनः

सुविदितमेवं श्रीकृष्णः लोकोत्तरो महापुरुषः आसीत्। अयं महापुरुषः सहस्नेभ्यः वर्षेभ्यः प्राक् उपन् सुविदितमेव अद्यापि जनानां हृदयेषु विराजमानः अस्ति। विवाहम् अकरोत् पश्चात् आकाशवाण्या देवकीपुत्रेण स्वमृत्युसमाचार विज्ञाय उभावपि कारागारे न्यक्षिपत्। श्रीकृष्णस्य मातुलः कंसः अत्याचारी शासकः आसीत्। स पूर्वं स्वभगिन्याः देवक्याः श्रीवसुदेवेन सह तत्रैव कारागारे श्रीकृष्णः जातः। श्रीकृष्णस्य जन्म भाद्रपदमासस्य कृष्णपक्षस्य अष्टम्यां तिथौ मथुरायाम् अभवत्। मध्यरात्रे यदायम उत्पन्न: जात: तदा आकाशे घटाटोपाः मेघाः मुसलधारा: वर्षाः अकुर्वन्। तदा रात्रिः अन्धकारपूर्णा आसीत्। पाठ परं वसुदेवः पुत्रस्य रक्षार्थं सद्योजातं तम् आदाय उत्तालतरङ्गां यमुनाम् उत्तीर्य गोकुले नन्दगृहं प्रापयत्। तत्र बाल्यादेव श्रीकृष्णः जनानां हृदयवल्लभः अभवत्।

बाल्यकाले अयं स्वसौन्दर्येण बाललीलया च सर्वेषां जनानां मनांसि अहरत्। कापि गोपिका तम् अङ्के निधाय स्वगृहं नयति, अपरा तं दुग्धं पाययति, अन्या च तस्मै नवनीतं ददाति। श्रीकृष्णः प्रेम्णा दत्तं दुग्धं पिबति, नवनीतं च खादति, अवसर प्राप्य स स्वमित्रैः गोपैः सह कस्मिंश्चिद् गृहे प्रविश्य दधि खादति, मित्रेभ्यः ददाति, अवशिष्टं दधि भूमौ पातयति यदा कदा दधिभाण्डं च त्रोटयति। एतत् सर्वं कुर्वतोऽपि तस्य शीलेन सौन्दर्येण च प्रभावितः न कोऽपि तस्मै क्रुध्यति, पर सर्वे तस्मिन् स्निह्यन्ति। अनन्तरं श्रीकृष्ण: गोपालैः सह वनं गत्वा गाः चारयति, तत्र च वेणुं वादयति, अनेन सर्वाः गाव: गोपालाश्च सर्वाणि कार्याणि विहाय तस्य वेणुवादनं शृण्वन्ति। महाकविः व्यासः संस्कृतभाषायां, भक्तकविः सूरदास: हिन्दी भाषायां तस्य बाललीलायाः अतिसुन्दर वर्णनम् अकरोत्।

यदा अयं बालः एव आसीत् तदा कंसः तं हन्तुं क्रमश: बहून् राक्षसान् प्रेषयत् परं श्रीकृष्णः स्वकौशलेन शौर्येण च तान् सर्वान् अहन्। स न केवलं राक्षसेभ्यः अपितु अन्याभ्यः विपद्भ्यः गोकुलवासिनो जनान् अरक्षत्। एकदा वर्षाकाले गोकुले यमुनायाः जलं वेगेन अवर्धत, तदा श्रीकृष्णः स्वप्राणान् अविगणय्य सर्वान्गोकुलनिवासिनः अरक्षत्। एवमेव सन्दीप्ते वही अयं सर्वान् पशून् गोपालान् च ततः अत्रायत। एवं निरन्तरं गोकुलवासिनां जनानां कष्टानि निवारयन् तेषां हृदये पदमधारयत्। अतः श्रीकृष्णः बाल्यकालादेव स्वोत्तमैः गुणैः परोपकारभावनया च लोकप्रियः अभवत् ।