भारतीया संस्कृति

भारतीय संस्कृति संस्कृत निबंध अति महत्वपूर्ण निबंध है। जिस के मुख्य बिंदु इस प्रकार हैं-

संस्कृते: स्वरूपम्

अस्माकम् देशस्य संस्कृति अतीव प्राचीनम् अस्ति। अस्य राष्ट्रस्य काचन प्राचीना संस्कृति वर्तते सा संस्कृति राष्ट्रस्य उपकरोति। अस्मिन् विश्वे सा एवं संस्कृति उपादेया भवति यथा सर्वेषां स्वान्तेषु विश्व हितम् बन्धुत्वं च आदर्शत्वेन उररी क्रियते भारतीय संस्कृतेः वैशिष्टयम् भारतीय संस्कृति धर्म प्रधाना, आध्यात्मिक भाव प्रवणा, पारलौकिक भाव सयुता कर्मनिष्ठा परा ज्ञान विज्ञान संश्रिता, संस्कृत भाषायाः वाडमये निवद्धा वर्तते।

आधारभूताः गुणा:

सदाचारस्य पालनम् वर्णाश्रमस्य व्यवस्था परोपकार कर्मवादपुनर्जन्मवादः मोक्षावाप्तिः पुरुषार्थ चतुष्टये जीवनोद्देश्य, यज्ञस्य महत्व, धर्माधृतम्, सत्य परिपालनम् अहिंसा परिपालन इत्यदयः भारतीय संस्कृतेः आधार भूताः गुणा सन्ति ।

संस्कृतेः प्रतीक:

भारतीय संस्कृतेः प्रतीकः गैरिकी भगवदध्वजा वर्तते। सर्वधर्म समभाव ईश्वर विश्वासः इत्यादयः अस्माक संस्कृतेः प्रमुखानि तत्वानि सन्ति।

भारतीया संस्कृति संस्कृत निबंध

मानव-जीवनस्य संस्करण संस्कृतिः। अस्माकं पूर्वजाः मानवजीवनं संस्कर्तुं महान्तं प्रयत्नम् अकुर्वन्। ते अस्माकं जीवनस्य संस्करणाय यान् आचारान् विचारान् च अदर्शयन् तत् सर्वम् अस्माकं संस्कृतिः। “विश्वस्य स्रष्टा ईश्वर एक एव” इति भारतीयसंस्कृतेः मूलम्। विभिन्नमतावलम्बिनः विविधैः नामभि एकम् एव ईश्वर भजन्ते।

अग्निः इन्द्रः, कृष्णः, करीम, रामः, रहीमः, जिन, बुद्ध, ख्रिस्तः, अल्लाहः इत्यादीनि नामानि एकस्य एव परमात्मनः सन्ति। तम् एव ईश्वरं जनाः गुरुः इत्यपि मन्यन्ते। अतः सर्वेषां मतानां समभाव: सम्मानश्च अस्माकं संस्कृतेः सन्देशः।

भारतीया संस्कृति तु सर्वेषां मतावलम्बिनां सङ्गमस्थली। काले काले विविधाः विचाराः भारतीयसंस्कृतौ समाहिताः। एषा संस्कृतिः सामासिकी संस्कृतिः यस्याः विकासे विविधानां जातीनां सम्प्रदायानां, विश्वासानाञ्च योगदानं दृश्यते। अतएव अस्माकं भारतीयानाम् एका संस्कृति एका च राष्ट्रियता। सर्वेऽपि वयं एकस्याः संस्कृतेः समुपासका एकस्य राष्ट्रस्य च राष्ट्रियाः।

यथा भ्रातरः परस्पर मिलित्वा सहयोगेन सौहार्देन च परिवारस्य उन्नति कुर्वन्ति तथैव अस्माभिः अपि सहयोगेन सौहार्देन च राष्ट्रस्य उन्नतिः कर्त्तव्या। अस्माकं संस्कृतिः सदा गतिशीला वर्तते। मानवजीवनं संस्कर्तुम् एषा यथासमयं नवां नवां विचारधारांस्वीकरोति, नवां शक्ति च प्राप्नोति। अत्र दुराग्रहः नास्ति, यत् युक्तियुक्त कल्याणकारि च तदत्र सहर्षं गृहीतं भवति।

एतस्याः गतिशीलतायाः रहस्यं मानवजीवनस्य शाश्वतमूल्येषु निहितम्, तद् यथा सत्यस्य प्रतिष्ठा, सर्वभूतेषु समभावः विचारेषु औदार्यम् आचारे दृढता चेति। एषा कर्मवीराणां संस्कृतिः। “कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः” इति अस्याः उद्घोषः। पूर्व कर्म, तदनन्तरं फलम् इति अस्माक नियमः।

इदानीं यदा वयं राष्ट्रस्य नवनिर्माणे सलग्नाः स्मः निरन्तरं कर्मकरणम् अस्माकं मुख्यं कर्त्तव्यम्। निजस्य श्रमस्य फलं भोग्यं, अन्यस्य श्रमस्य शोषणं सर्वथा वर्जनीयम्। यदि वयं विपरीतम् आचरामः तदा न वयं सत्यं भारतीयसंस्कृतेः उपासकाः। वयं तदैव यथार्थं भारतीयाः यदास्माकम् आचारे विचारे च अस्माकं संस्कृतिः लक्षिता भवेत्। अभिलषामः वयं यत् विश्वस्य अभ्युदयाय भारतीयसंस्कृते एषः दिव्यः सन्देशः लोके सर्वत्र प्रसरेत्।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत् ॥

×